|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.64. अध्यायः 064
Mahabharata - Bhishma Parva - Chapter Topics
भीमेन दुर्योधनानुजाष्टकवधः ॥ 1 ॥ घटोत्कचभयेन कुरुभिः सेनावहारः ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-64-0x(4133)(41488)
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः।
प्राविध्यद्भृशसंक्रुद्धस्तोत्रैरिव महाद्विपम् ॥ 6-64-1(41489)
कौरवं सात्यकिश्चैव शरैः सन्नतपर्वभिः।
अवारयदमेयात्मा सर्वलोकस्य पश्यतः॥ 6-64-2(41490)
ततो दुर्योधनो राजा सोदर्यैः परिवारितः।
सोमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥ 6-64-3(41491)
तं चैव पाण्डवाः सर्वे सात्यकिं रभसं रणे।
परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ॥ 6-64-4(41492)
भीमसेनस्तु संक्रुद्धो गजामुद्यम्य भारत ।
दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥ 6-64-5(41493)
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः ।
नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥ 6-64-6(41494)
विव्याध विशिखैः षड्भिः कङ्कपत्रैः शिलाशितैः ।
दुर्योधनस्तदा राजन्भीमसेनं महारथम् ॥ 6-64-7(41495)
आजघानोरसि क्रुद्धो मार्गणैर्नवभिः शितैः ।
ततो भीमो महाबाहुः स्वरथं सुमहाबलः ॥ 6-64-8(41496)
आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ।
एते महारथाः शूरा धार्तराष्ट्राः समागताः ॥ 6-64-9(41497)
मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि।
मनोरथद्रुमोऽस्माकं चिन्तितो बहुवार्षिकः ॥ 6-64-10(41498)
सफलः सूत चाद्येह योऽहं पश्यामि सोदरान्।
यत्राशोकसमुत्क्षिप्ता रेणवो रथनेमिभिः ॥ 6-64-11(41499)
प्रयास्यन्त्यन्तरिक्षं हि शरबृन्दैर्दिगन्तरे ।
तत्र तिष्ठति सन्नद्धः स्वयं राजा सुयोधनः ॥ 6-64-12(41500)
भ्रातरश्चास्य सन्नद्धाः कुलपुत्रा मदोत्कटाः ।
एतानद्य हनिष्यामि पश्यतस्ते न संशयः ॥ 6-64-13(41501)
तस्मान्ममाश्वान्संग्रमे यत्तः संयच्छ सारथे।
एवमुक्त्वा ततः पार्थस्तव पुत्रं विशांपते ॥ 6-64-14(41502)
विव्याध निशितैस्तीक्ष्णैः शरैः कनकभूषणैः।
नन्दकं च त्रिभिर्भाणैरभ्यविध्यत्स्तनान्तरे ॥ 6-64-15(41503)
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्।
त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥ 6-64-16(41504)
भिमस्य च रणे राजन्धनुश्चिच्छेद भासुरम् ।
मुष्टिदेशे भृशं तीक्ष्णौस्त्रिभिर्भल्लैर्हसन्निव ॥ 6-64-17(41505)
समरे प्रेक्ष्य यन्तारं विशोकं तु वृकोदरः ।
पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥ 6-64-18(41506)
अमृष्यमाणः संरब्धो धनुर्दिव्यं परामृशम् ।
पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ 6-64-19(41507)
समादधत्सुसंक्रुद्धः क्षुरप्रं रोमवाहिनम् ।
तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥ 6-64-20(41508)
सोऽपविद्ध्य धनुश्छिन्नं पुत्रस्ते क्रोधमूर्च्छितः ।
अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥ 6-64-21(41509)
संदधे विशिखं घोर कालमृत्युसमप्रभम् ।
तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ॥ 6-64-22(41510)
स गाढविद्धो व्यथितः स्यान्दनोपस्थ आविशत्।
स निषण्णो रथोपस्थे मूर्च्छामभिजगाम ह ॥ 6-64-23(41511)
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।
नामृष्यन्त महेष्वासाः पाण्डवानां महारथः ॥ 6-64-24(41512)
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् ।
पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥ 6-64-25(41513)
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 6-64-26(41514)
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः।
रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥ 6-64-27(41515)
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।
सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥ 6-64-28(41516)
उद्रो भीमरथो भीमो वीरबाहुरलोलुपः ।
दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥ 6-64-29(41517)
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः ।
भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥ 6-64-30(41518)
पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः ।
सृक्किणी विलिहन्वीरः पशुमध्ये यथा वृकः ॥ 6-64-31(41519)
अभिपत्य महाबाहुर्गरुत्मानिव वेगितः।
सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥ 6-64-32(41520)
संप्रहस्य च हृष्टात्मा त्रिभिर्बाणैर्महाभुजः ।
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम् ॥ 6-64-33(41521)
सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे।
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ॥ 6-64-34(41522)
पातयामास भल्लेन कुण्डलाभ्यां विभूषितम्।
वीरबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ॥ 6-64-35(41523)
निनाय समरे वीरः परलोकाय पाण्डवः।
भीमं भीमरथं चोभौ भीमसेनो हसन्निव ॥ 6-64-36(41524)
पुत्रौ ते दुर्मदौ राजन्ननयद्यमसादनम् ।
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ॥ 6-64-37(41525)
मिषतां सर्वसैन्यानामनयद्यमसादनम्।
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ॥ 6-64-38(41526)
शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः।
विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥ 6-64-39(41527)
ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्।
एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥ 6-64-40(41528)
यथा प्राग्र्यान्यथा ज्येष्ठान्यथा शूरांश्च संगतान्।
निपातयत्युग्रधन्वा तं प्रगृह्णीत माचिरम् ॥ 6-64-41(41529)
एवमुक्त्वा ततः सर्वे धार्तराष्ट्रस्य सैनिकाः।
अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् ॥ 6-64-42(41530)
भगदत्तः प्रभिन्नेन कुञ्जरेण विशांपते ।
अभ्ययात्सहसा तत्रयत्र भीमो व्यवस्थितः ॥ 6-64-43(41531)
आपतन्नेव च रणे भीमसेनं शिलीमुखैः ।
अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥ 6-64-44(41532)
अभिमन्युमुखास्तत्तु नामृष्यन्त महारथाः ।
भीमस्याच्छादनं शङ्ख्ये स्वबाहुबलमाश्रिताः ॥ 6-64-45(41533)
त एनं शरवर्षेण समन्तात्पर्यवारयन् । 6-64-46bगजं च शरवृष्ट्या तु बिभिदुस्ते समन्ततः ॥ 6-64-46(41534)
स शस्त्रवृष्ट्याऽभिहतः समस्तैस्तैर्महारथैः।
प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥ 6-64-47(41535)
संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे।
गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ 6-64-48(41536)
संचोदितो मदस्रावी भगदत्तेन वारणः।
अभ्यधावत तन्सर्वान्कालोत्सृष्ट इवान्तकः ॥ 6-64-49(41537)
द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम्।
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ॥ 6-64-50(41538)
असह्यं मन्यमानाश्च नातिप्रमनसोऽभवन् ।
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ॥ 6-64-51(41539)
आजघान महाराज शरेणानतपर्वणा।
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः । 6-64-52(41540)
मूर्च्छयाऽभिपरीतात्मा ध्वजयष्टिं समाश्रयत्।
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्च्छितम् ॥ 6-64-53(41541)
ननाद बलवन्नादं भगदत्तः प्रतापवान्।
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथाऽऽगतं ॥ 6-64-54(41542)
संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत।
स कृत्वा दारुणां मायां भूरूणां भयवर्धिनीम् ॥ 6-64-55(41543)
अदृश्यत निमेषार्धाद्धोररूपं समास्थितः।
ऐरावतं समारूढः स वै मायाकृतं स्वयम् ॥ 6-64-56(41544)
तस्य चान्येऽपि दिङ्वागा बभूवुरनुयायिनः।
अञ्जनो वमानश्चैव महापद्मश्च सुप्रभः ॥ 6-64-57(41545)
त्रय एते महानागा राक्षसैः समधिष्ठिताः।
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ॥ 6-64-58(41546)
तेजोवीर्यबलोपेता महाबलपराक्रमाः।
घटोत्कचस्तु स्वं नागं चोदयामास तं तदा ॥ 6-64-59(41547)
सगजं भगदत्तं तु हन्तुकामः परंतपः।
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ॥ 6-64-60(41548)
परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम्।
भगदत्तस्य तं नागं विषाणैरभ्यपीडयन् ॥ 6-64-61(41549)
स पीड्यमानस्तैर्नागैर्वेदनार्तः शराहतः।
अनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥ 6-64-62(41550)
`व्यवर्तत महाघोषो भैमसेनिशरार्दितः ।
मृदित्वा सर्वसैन्यानि तव पुत्रस्य भारत'॥ 6-64-63(41551)
तस्य तं नदतो नादं सुघोरं भीमनिःश्वनम् ।
श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥ 6-64-64(41552)
एष युध्यति संग्रामे हैडिम्बेन दुरात्मना।
भगदत्तो महेष्वासः कृच्छ्रे च परिवर्तते ॥ 6-64-65(41553)
राक्षसश्च महामायः स च राजाऽतिकोपनः ।
एतौ समेतौ समरे कालमृत्युसमावुभौ ॥ 6-64-66(41554)
श्रीयते चैव हृष्टानां पाण्डवानां महास्वनः ।
हस्तिनश्चैव सुमहान्भीतस्य रुदितध्वनिः ॥ 6-64-67(41555)
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् ।
अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यति ॥ 6-64-68(41556)
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।
महान्हि वर्तते रौद्रः संग्रामो रोमहर्षणः ॥ 6-64-69(41557)
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः।
युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युत ॥ 6-64-70(41558)
भीष्मस्य तद्वचः श्रुत्वा सर्व एव महारथाः ।
द्रोणभीष्मौ पुरस्कृत्य भगदत्तपरीप्सया ॥ 6-64-71(41559)
उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत्।
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ॥ 6-64-72(41560)
पञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान्।
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ॥ 6-64-73(41561)
ननाद सुमहानादं विस्फोटमशनेरिव ।
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ॥ 6-64-74(41562)
भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ।
न रोचते मे संग्रामो हैडिम्बेन दुरात्मना ॥ 6-64-75(41563)
बलवीर्यमसाविष्टः ससहायश्च सांप्रतज् ।
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ॥ 6-64-76(41564)
लब्धलक्षः प्रहारी च वयं च श्रान्तवाहनाः।
पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥ 6-64-77(41565)
इदानीं युधि निर्जेतुं न शक्योऽसौ स राक्षसः ।
अस्तमभ्येति सविता रात्रौ योद्धुं कन शक्यते।
अवहारमतः कुर्मः श्वो योत्स्यामः परै सह ॥ 6-64-78(41566)
पितामहवचः श्रुत्वा यथा चक्रुःस्म कौरवाः ।
उपायेनापयानं ते घटोत्कचभयार्दिताः ॥ 6-64-79(41567)
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः।
सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च भारत ॥ 6-64-80(41568)
एवं तदभवद्युद्धं दिवसं भरतर्षभ ।
पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥ 6-64-81(41569)
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्।
व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ 6-64-82(41570)
शरविक्षतगात्रास्तु पाण्डपपुत्रा महारथाः।
युद्धे सुमनसो भूत्वा जग्मुः स्वशिबिरं प्रति ॥ 6-64-83(41571)
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ।
पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥ 6-64-84(41572)
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।
सिंहनादांश्च कुर्वन्तो विमिश्राञ्शङ्खनिः स्वनैः ॥ 6-64-85(41573)
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् ।
घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष । 6-64-86(41574)
प्रयाताः शिबिरायैव निशाकाले परंतप ।
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ॥ 6-64-87(41575)
मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः।
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।
प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ॥ ॥ 6-64-88(41576)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि चतुर्थदिवसयुद्धे चतुःषष्टितमोऽध्यायः ॥ ॥ इति चतुर्थदिवसयुद्धं समाप्तम् ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-64-47 सुतेजनैर्बाणैरिति शेषः ॥ 6-64-85 घट्टयन्तः स्पृशन्तः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|